mantrasadhanagyan.online

॥ श्रीमातङ्गी का महा-मन्त्र ॥

विनियोग — ॐ अस्य श्रीमातङ्गी- -महा-मन्त्रस्य श्री दक्षिणामूर्ति ऋषिः, विराट् छन्दः, श्रीमातङ्गी देवता, सर्व-सिद्धि-प्राप्तये जपे विनियोगः ।

ऋष्यादि-न्यास– श्रीदक्षिणामूर्ति-ऋषये नम: शिरसि, विराट् छन्दसे नमः मुखे, श्रीमातङ्गी-देवतायै नमः हृदि, सर्व-सिद्धि-प्राप्तये जपे विनियोगाय नमः सर्वाङ्गे ।

कर-न्यास — ॐ ह्रां अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ हूं मध्यमाभ्यां नमः । ॐ हैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतल-कर-पृष्ठाभ्यां
नमः ।

षडङ्ग-न्यास- ॐ ह्रां हृदयाय नमः। ॐ ह्रीं शिरसे स्वाहा । ॐ हूं शिखायै वषट् । ॐ हैं कवचाय हुम्। ॐ ह्रौं नेत्र-त्रयाय वौषट् । ॐ ह्रः अस्त्राय फट्।

ध्यान — – श्यामाङ्गीं शशि-शेखरां त्रि-नयनां रत्न-सिंहासन-स्थिताम् ।
ध्यायेऽहं वेदैर्बाहु-दण्डैरसि-खेटक-पाशांकुश-धराम्॥
अर्थात् देवी मातङ्गी श्याम-वर्णा हैं, अर्द्ध-चन्द्र मस्तक पर है, तीन नेत्र हैं, चार भुजाओं में खड्ग- -खेटक-पाश और अंकुश लिए हैं तथा रत्न- -जटित सिंहासनपर विराजमान हैं। उनका मैं ध्यान करता हूँ।

मानस-पूजन — ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमातङ्गी-प्रीतये समर्पयामि नमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमातङ्गी-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमातङ्गी-प्रीतये घ्रापयामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमातङ्गी-प्रीतये दर्शयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्रीमातङ्गी-प्रीतये निवेदयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमातङ्गी-प्रीतये समर्पयामि नमः।

मन्त्र — ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा। (१० अक्षर)।

जप-विधि एवं समर्पण— रात्रि में उक्त प्रकार से मातङ्गी देवी का ‘ध्यान’ कर मनोरम- गन्ध-पुष्पादि उपचारों से उनका ‘पूजन’ करे। शर्करा-युक्त पायस का ‘नैवैद्य’ अर्पित कर उक्त मन्त्र का ‘जप’ करे। इस प्रकार नित्य ‘जप’ करने से मातङ्गी देवी साधक की मनो-कामना पूर्ण करती हैं और वह कवित्व-शक्ति, वाक्-शक्ति प्राप्त करता है। जिस प्रकार गरुड़ सर्पों का विनाश करता है, उसी प्रकार मातङ्गी देवी की उपासना के फल-स्वरूप साधक भी अपने शत्रुओं का नाश करने में समर्थ होता है। मातङ्गी देवी की उपासना से साधक शास्त्र-ज्ञान, वाद-विवाद में विजयी होता है और कुबेर के समान धनी व्यक्ति उसके घर आकर उसे धन प्रदान करते हैं। ‘जप’ का ‘समर्पण’ निम्न प्रकार करे-

                         ॐ गुह्याति-गुह्य- गोप्त्री त्वं गृहाणास्मत्-कृतं जपम्।

                              त्वत्-प्रसादान्मे देवि ! सिद्धिर्भवतु महेश्वरि ! ॥

                             ॥ इदं जपं श्रीमातङ्गी-देव्यै समर्पयामि स्वाहा ॥

॥ श्रीमातङ्गी त्रैलोक्य मङ्गल-कवच ॥

विनियोग– ॐ अस्य श्रीमातङ्गी-कवचस्य श्रीदक्षिणामूर्तिः ऋषिः, विराट् छन्दः, श्रीमातङ्गी देवता,
चतुर्वर्ग-सिद्धये पाठे विनियोगः ।
ऋष्यादिन्यास-श्रीदक्षिणामूर्ति-ऋषये नम: शिरसि, विराट् छन्दसे नमः मुखे, श्रीमातङ्गी-देवतायै
नमः हृदि, चतुर्वर्ग-सिद्धये पाठे विनियोगाय नमः सर्वाङ्ग ।

    ॥ कवच स्तोत्र ।।

ॐ शिरो मातङ्गिनी पातु, भुवनेशी तु चक्षुषी । तोडला कर्ण-युगलं, त्रिपुरा वदनं मम ।।१

पातु कण्ठे महा-माया, हृदि माहेश्वरी तथा । त्रिपुरा पार्श्वयोः पातु, गुदे कामेश्वरी मम ।।२

ऊरु-द्वये तथा चण्डी, जङ्घायां च रति-प्रिया । महा-माया पद-युग्मे, सर्वाङ्गेषु कुलेश्वरी ।। ३

अङ्ग-प्रत्यङ्गकं चैव, सदा रक्षतु वैष्णवी । ब्रह्म-रन्ध्रे सदा रक्षेन्, मातङ्गी नाम-संस्थिता ।।४

ललाटे रक्षयेन्नित्यं, महा-पिशाचिनीति च । नेत्राभ्यां सुमुखी रक्षेद्, देवी रक्षेत् तु नासिका ।। ५

महा-पिशाचिनी पश्चात्, मुखे रक्षतु सर्वदा । लज्जा रक्षतु मां दन्ते, चोष्ठौ सम्मार्जनी करी ।।६

चिबुके कण्ठ-देशे च, ठङ्कार-त्रितयं पुनः । स-विसर्गं महा-देवि ! हृदयं पातु सर्वदा ।।७

नाभि रक्षतु मां लोला, कालिकाऽवतु लोचने । उदरे पातु चामुण्डा, लिङ्गे कात्यायनी तथा ।।८

उग्रतारा गुदे पातु, पादौ रक्षतु चाम्बिका । भुजौ रक्षतु शर्वाणी, हृदयं चण्ड-भूषणा ।। ९

जिह्वायां मातृका रक्षेत्, पूर्वे रक्षतु पुष्टिका । विजया दक्षिणे पातु, मेधा रक्षतु वारुणे ।। १०

नैर्ऋत्यां श्रद्धया रक्षेत्, वायव्यां पातु लक्ष्मणा । ऐशान्यं रक्षयेद् देवी, मातङ्गी शुभ-कारिणी ।। ११

सुवेशा चाग्नेये रक्षेद्, बगला पातु चोत्तरे । ऊर्ध्वं पातु महा-देवी, देवानां हित-कारिणी ।। १२

पाताले पातु मां नित्यं, विशानी विश्व-रूपिणी । प्रणवं च ततो माया, काम-बीजं च कूर्चकम् ।। १३

मातङ्गिनी ङे-युतास्त्रं, वह्नि-जायाऽवधिर्मनुः । साद्धैकादश-वर्णा सा, सर्वत्र पातु मां सदा ।। १४

 ॥ फलश्रुति ॥

इति ते कथितं देवि ! गुह्याद्-गुह्य-तरं परम् ।त्रैलोक्य-मोहनं नाम, कवचं देव-दुर्लभम् ।। १

य इदं प्रपठेन्नित्यं, जायते सम्पदालयः । परमैश्वर्यमतुलं, प्राप्नुयान्नात्र संशयः ।। २

श्रीमातङ्गी-अष्टोत्तर शत नामावली

१. श्रीमहा-मत्त- -मातङ्गिन्यै नमः। २. श्रीसिद्धि-रूपायै नमः। ३. श्रीयोगिन्यै नमः। ४. श्रीभद्र-काल्यै नमः। ५. श्रीरमायै नमः। ६. श्रीभवान्यै नमः । ७. श्रीभय-प्रीतिदायै नमः । ८. श्रीभूति-युक्तायै नमः । ९. श्रीभवाराधितायै नमः। १०. श्रीभूति-सम्पत्ति-कर्यै नमः । ११. श्रीजनाधीश-मात्रे नमः। १२. श्रीधनागार- दृष्ट्यै नमः। १३. श्रीधनेशार्चितायै नमः । १४. श्रीधीवरायै नमः। १५. श्रीधीवराङ्गयै नमः। १६. श्रीप्रकृष्टायै नमः। १७. श्रीप्रभा-रूपिण्यै नमः। १८. श्रीकाम-रूपायै नमः । १९. श्रीप्रहृष्टायै नमः। २०. श्रीमहा- कीर्तिदायै नमः। २१. श्रीकर्ण-नाल्यै नमः । २२. श्रीकाल्यै नमः । २३. श्रीभगाघोर-रूपायै नमः। २४. श्रीभगाङ्गयै नमः। २५. श्रीभगावाह्यै नमः ।
२६. श्रीभग-प्रीतिदायै नमः । २७. श्रीभीम-रूपायै नमः । २८. श्रीभवानी-महा-कौशिक्यै नमः। २९. श्रीकोश-पूर्णायै नमः। ३०. श्रीकिशोर्यै नमः। ३१. श्रीकिशोर-प्रियानन्द-ईहायै नमः। ३२. श्रीमहा- कारणायै नमः। ३३. श्रीकारणायै नमः। ३४. श्रीकर्म-शीलायै नमः । ३५. श्रीकपाल्यै नमः। ३६. श्रीप्रसिद्धायै नमः । ३७. श्रीमहा-सिद्ध-खण्डायै नमः । ३८. श्रीमकार-प्रियायै नमः। ३९. श्रीमान-रूपायै नमः । ४०. श्रीमहेश्यै नमः। ४१. श्रीमहोल्लासिन्यै नमः । ४२. श्रीलास्य-लीला-लयाङ्गयै नमः । ४३. श्रीक्षमायै नमः । ४४. श्रीक्षेम-शीलायै नमः । ४५. श्रीक्षपा-कारिण्यै नमः । ४६. श्रीअक्षय-प्रीतिदा-भूति-युक्ता भवान्यै नमः। ४७. श्रीभवाराधिता-भूति-सत्यात्मिकायै नमः । ४८. श्रीप्रभोद्भासितायै नमः । ४९. श्रीभानु- भास्वत्- करायै नमः। ५०. श्रीचलत्-कुण्डलायै नमः।
श्रीक्रमायै नमः । श्रीक्षमाड्यै नमः ।
५१. श्रीकामिनी-कान्त-युक्तायै नमः । ५२. श्रीकपालाऽचलायै नमः । ५३. श्रीकालकोद्धारिण्यै नमः । ५४. श्रीकदम्ब-प्रियायै नमः । ५५. श्रीकोटयै नमः । ५६. श्रीकोट-देहायै नमः । ५७. ५८. श्रीकीर्तिदायै नमः । ५९. श्रीकर्ण-रूपायै नमः । ६०. श्रीकाक्ष्म्यै नमः । ६१. ६२. श्रीक्षय-प्रेम-रूपायै नमः । ६३. श्रीक्षपायै नमः । ६४. श्रीक्षयाक्षायै नमः । ६५. ६६. श्रीक्षय-प्रान्तरायै नमः । ६७. श्रीक्षवत्-कामिन्यै नमः। ६८. श्रीक्षारिण्यै नमः। ६९. ७०. श्रीशिवाङ्गयै नमः।
श्रीक्षयाह्वायै नमः । श्रीक्षीर-पूषायै नमः ।
७१. श्रीशाकम्भर्यै नमः । ७२. श्रीशाक-देहायै नमः । ७३. श्रीमहा-शाक-यज्ञायै नमः । ७४. श्रीफल- प्राशकायै नमः। ७५. श्रीशकाह्वा-शकाख्या-शकायै नमः । ७६. श्रीशकाक्षान्तरोषायै नमः । ७७. श्रीसुरोषायै नमः। ७८. श्रीसुरेखायै नमः । ७९. श्रीमहा-शेष- यज्ञोपवीत-प्रियायै नमः । ८०. श्रीजयन्ती -जया-जाग्रती- योग्य-रूपायै नमः। ८१. श्रीजयाङ्गायै नमः । ८२. श्रीजप- ध्यान-सन्तुष्ट-संज्ञायै नमः । ८३. श्रीजय-प्राण- रूपायै नमः । ८४. श्रीजय-स्वर्ण-देहायै नमः । ८५. श्रीजय-ज्वालिन्यै नमः । ८६. श्रीयामिन्यै नमः । ८७. श्रीयाम्य-रूपायै नमः । ८८. श्रीजगन्मातृ-रूपायै नमः । ८९. श्रीजगद्-रक्षणायै नमः । ९०. श्रीस्वधा- वौषडन्तायै नमः। ९१. श्रीविलम्बाविलम्बायै नमः । ९२. श्रीषडङ्गायै नमः । ९३. श्रीमहा-लम्ब-रूपाऽसि- हस्ताऽऽपदा-हारिण्यै नमः । ९४. श्रीमहा-मङ्गलायै नमः । ९५. श्रीमङ्गल-प्रेम-कीर्त्यै नमः। ९६. श्रीनिशुम्भ- क्षिदायै नमः । ९७. श्रीशुम्भ-दर्पत्वहायै नमः । ९८. श्रीआनन्द-बीजादि-स्वरूपायै नमः । ९९. श्रीमुक्ति- स्वरूपायै नमः। १००. श्रीचण्ड-मुण्डापदायै नमः ।
१०१. श्रीमुख्य- चण्डायै नमः । १०२. श्रीप्रचण्डाऽप्रचण्डायै नमः । १०३. श्रीमहा-चण्ड-वेगायै नमः । १०४. श्रीचलच्चामरायै नमः। १०५. श्रीचामरा-चन्द्र-कीर्त्यै नमः । १०६. श्रीसु- चामीकरायै नमः । १०७. श्रीचित्र-भूषोज्ज्चलागयै नमः । १०८. श्रीसु-सङ्गीत-गीतायै नमः ।