mantrasadhanagyan.online

श्रीबाला - त्रिपुर-सुन्दरी का त्र्यक्षर-मन्त्र

विनियोग — ॐ अस्य श्रीबाला त्रिपुरा- मन्त्रस्य श्रीदक्षिणामूर्तिः ऋषिः, पंक्तिश्छन्दः, – श्रीबाला त्रिपुरसुन्दरी देवता, ऐं वीजं सौः शक्तिः, क्लीं कीलकं, श्रीबाला त्रिपुरसुन्दरी-
प्रीत्यर्थे जपे विनियोगः ।
ऋष्यादि-न्यास– शिरसि श्रीदक्षिणा-मूर्ति-ऋषये नमः, मुखे पंक्तिश्छन्दसे नमः, हृदि श्रीबाला-त्रिपुर-सुन्दरी-देवतायै नमः, गुह्ये ‘ऐं’-वीजाय नमः, पादयोः ‘सौः ‘-शक्तये नमः, सर्वाङ्गे ‘क्लीं’-कीलकाय नमः, श्रीबाला – त्रिपुर-सुन्दरी- प्रीत्यर्थे जपे विनियोगाय नमः अञ्जली।
कराङ्ग-न्यास— ॐ ऐं अंगुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां स्वाहा । ॐ सौः मध्यमाभ्यां वषट्। ॐ ऐं अनामिकाभ्यां हुम् । ॐ क्लीं कनिष्ठाभ्यां वौषट् । ॐ सौः करतल-कर-पृष्ठाभ्यां फट्।
षडङ्ग-न्यास— ॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ सौः शिखायै वषट्। ॐ ऐं कवचाय हुम्। ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ सौः अस्त्राय फट्।
ध्यान
अरुण-किरण-जालैरञ्जिता सावकाशा, विधृत-जप-वटीका पुस्तकाभीति-हस्ता। इतर-कर-वराढ्या फुल्ल-कह्लार-संस्था, निवसतु हृदि बाला नित्य-कल्याण- शीला ॥१ रक्ताम्बरां चन्द्र-कलाऽवतंसाम्, समुद्यदादित्य-निभां त्रि-नेत्राम्। विद्याक्ष-मालाऽभय-दान- हस्ताम्, ध्यायामि बालामरुणाम्बुजस्थाम्॥२
मानस-पूजन— ॐ लं पृथिव्यात्मकं गन्धं श्रीबाला-त्रिपुरा-प्रीतये समर्पयामि नमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीबाला – त्रिपुरा-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीबाला – त्रिपुरा- प्रीतये घ्रापयामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीबाला-त्रिपुरा- प्रीतये दर्शयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्रीबाला त्रिपुरा-प्रीतये निवेदयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीबाला-त्रिपुरा-प्रीतये समर्पयामि नमः।
मन्त्र– ऐं क्लीं सौः। (त्र्यक्षर)।
जप-विधि एवं समर्पण— पहले उक्त त्र्यक्षरी के प्रत्येक वीज का क्रमशः यथा-शक्ति ‘जय’ करे। फिर एक साथ त्र्यक्षर मन्त्र का जप करे। ‘ऐं’-वीज और ‘सौ:’-वीज के जप के समय श्वेत वस्त्र, श्वेत-चन्दन धारण करे, ‘क्लीं’-वीज के जप हेतु रक्त-वस्त्र, रक्त-चन्दन धारण करे। ‘जप- समर्पण’ निम्न प्रकार से करे-
ॐ गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत्-कृतं जपम्।
सिद्धिर्भवतु मे देवि! त्वत्-प्रसादान् महेश्वरि!॥
॥ इदं जपं श्रीबाला त्रिपुर-सुन्दरी-देव्यै समर्पयामि स्वाहा ॥

श्रीबाला त्रिपुर सुन्दरी-कवच


विनियोग-ॐ अस्य श्रीबाला- कवचस्य श्रीदक्षिणा- मूर्ति- अव्यय ऋषिः, पंक्तिश्छन्दः, त्रिपुरसुन्दरी देवता, धर्मार्थ-काम-मोक्षार्थे पाठे विनियोगः।

ऋष्यादि-न्यास-श्रीदक्षिणा- मूर्ति- अव्यय – ऋषये नम: शिरसि, पंक्तिश्छन्दसे नमः मुखे, श्रीबाला- त्रिपुर-सुन्दरी- देवतायै नमः हृदि, धर्मार्थ-काम-मोक्षार्थे पाठे विनियोगाय नमः अञ्जलौ ।
।। ध्यान ॥
अरुण-किरण-जालैरञ्जिता सावकाशा, विधृत-जप-वटीका पुस्तिकाऽभीति- हस्ता । इतर-कर-वराढ्या, फुल्ल-कह्लार-संस्था, निवसतु हृदि बाला, नित्य कल्याण- शीला ।।

मानस-पूजन-ॐ लं पृथ्वी तत्त्वात्मकं गन्धं श्रीबाला त्रिपुर-सुन्दरी- प्रीतये समर्पयामि नमः । ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीबाला- त्रिपुर- सुन्दरी- प्रीतये समर्पयामि नमः । ॐ यं वायु-तत्त्वात्मकं धूपं श्रीबाला – त्रिपुर- सुन्दरी-प्रीतये घ्रापयामि नमः । ॐ रं अग्नि- तत्त्वात्मकं दीपं श्रीबाला-त्रिपुर-सुन्दरी- प्रीतये दर्शयामि नमः। ॐ वं जलं तत्त्वात्मकं नैवेद्यं श्रीबाला-त्रिपुर-सुन्दरी- प्रीतये निवेदयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीबाला त्रिपुर- सुन्दरी- प्रीतये समर्पयामि नमः।

॥ कवच स्तोत्र ।।
वाग्भवं पातु शिरसि, काम- राजं सदा हृदि । शक्ति- बीजं सदा पातु, नाभौ गुह्ये च पादयोः ।। १

ऐं क्लीं सौः वदने पातु, बाला सर्व-सिद्धये । जिह्वां पातु महा-हंसी, स्कन्ध-देशे तु भैरवी ।। २

सुन्दरी नाभि-देशं तु, शिरसि कमला सदा । ध्रुवौ नासा द्वयं पातु, महा- त्रिपुर- सुन्दरी ।।३

ललाटे शुभगा पातु कण्ठ-देशे तु मालिनी । वाग्भवं पातु हृदये, उदरे भग-सर्पिणी ।।४

भग-मालिनी नाभि-देशे, लिङ्गे पातु मनोभवा । गुह्ये पातु महा-देवी, राज-राजेश्वरी शिवा ।। ५

चैतन्य-रूपिणी पातु, पादयोर्जगदम्बिका । नारायणी सर्व गात्रे, सर्व-काले शिवङ्करी ।।६

ब्रह्माणी पातु मां पूर्वे, दक्षिणे पातु वैष्णवी । पश्चिमे पातु वाराही, उत्तरे तु महेश्वरी ।।७

आग्नेयां पातु कौमारी, महा-लक्ष्मीस्तु नैऋते । वायव्यां पातु चामुण्डा, इन्द्राणी पातु ईशके ।।८

आकाशे च महा-माया, पृथिव्यां सर्व मङ्गला । आत्मानं पातु वरदा, सर्वाङ्गे भुवनेश्वरी ।।९

॥ फलश्रुति ॥

यदीदं कवचं देव्याः, त्रैलोक्ये चापि दुर्लभम् । यः पठेत् प्रातरुत्थाय, शुचिः प्रयतमानसः ।।१

न रोगो नापदो व्याधिर्भयं क्वापि न जायते । न च दुष्ट-भयं तस्य, पातकानां भयं कदा ।। २

यदीदं कवचं ज्ञात्वा, श्रीबालां यो जपेत् प्रिये ! स प्राप्नोति फलं सर्वं, शिव- सायुज्य-सम्भवम् ।। ३

श्रीबाला - त्रिपुर-सुन्दरी- अष्टोत्तर शत नामावली

१. श्रीअरुण-रूपायै नमः। २. श्रीमहा-रूपायै नमः। ३. श्रीज्योति-रूपायै नमः। ४. श्रीमहेश्वर्यै नमः। ५. श्रीपार्वत्यै नमः। ६. श्रीवर- रूपायै नमः । ७. श्रीपर-ब्रह्म-स्वरूपिण्यै नमः। ८. श्रीलक्ष्म्यै नमः। ९. श्रीलक्ष्मी-स्वरूपायै नमः । १०. श्रीलक्ष-स्वरूपिण्यै नमः । ११. श्रीअलक्ष-स्वरूपिण्यै नमः । १२. श्रीगायत्र्यै नमः। १३. श्रीसावित्र्यै नमः । १४. श्रीसन्ध्यायै नमः । १५. श्रीसरस्वत्यै नमः । १६. श्रीश्रुत्यै नमः। १७. श्रीवेद- बीजायै नमः । १८. श्रीब्रह्म – बीजायै नमः । १९. श्रीविश्व – बीजायै नमः। २०. श्रीकवि-प्रियायै नमः। २१. श्रीइच्छा-शक्तयै नमः । २२. श्रीक्रिया- शक्तयै नमः । २३. श्रीआत्म- शक्त्यै नमः। २४. श्रीभयङ्कर्यै नमः। २५. श्रीकालिकायै नमः ।
२६. श्रीकमलायै नमः। २७. श्रीकाल्यै नमः । २८. श्रीकङ्काल्यै नमः । २९. श्रीकाल-रूपिण्यै नमः। ३०. श्रीउपस्थिति-स्वरूपायै नमः। ३१. श्रीप्रलयायै नमः । ३२. श्रीलय- कारिण्यै नमः । ३३. श्रीहिंगुलायै नमः । ३४. श्रीत्वरितायै नमः। ३५. श्रीचण्ड्यै नमः। ३६. श्रीचामुण्डायै नमः । ३७. श्रीमुण्ड-मालिन्यै नमः। ३८. श्रीरेणुकायै नमः। ३९. श्रीभद्र – काल्यै नमः । ४०. श्रीमातङ्गयै नमः । ४१. श्रीशिवायै नमः । ४२. श्रीशाम्भव्यै नमः । ४३. श्रीयोगुलायै नमः । ४४. श्रीमङ्गलायै नमः । ४५. श्रीगौर्यै नमः । ४६. श्रीगिरिजायै नमः। ४७. श्रीगोमत्यै नमः। ४८. श्रीगयायै नमः । ४९. श्रीकामाक्ष्यै नमः । ५०. श्रीकाम-रूपायै नमः ।
५१. श्रीकामिन्यै नमः । ५२. श्रीकाम-रूपिण्यै नमः । ५३. श्रीयोगिन्यै नमः । ५४. श्रीयोग-रूपायै नमः। ५५. श्रीयोग-प्रियायै नमः । ५६. श्रीज्ञान-प्रियायै नमः । ५७. श्रीशिव-प्रियायै नमः । ५८. श्रीउमायै नमः। ५९. श्रीकात्यायन्यै नमः । ६०. श्रीचण्ड्यम्बिकायै नमः । ६१. श्रीत्रिपुर-सुन्दर्यै नमः । ६२. श्रीअरुणायै नमः । ६३. श्रीतरुण्यै नमः। ६४. श्रीशान्तायै नमः । ६५. श्रीसर्व सिद्धये नमः । ६६. श्रीसुमङ्गलायै नमः। ६७. श्रीशिवा-मात्रे नमः । ६८. श्रीसिद्धि-मात्रे नमः । ६९. श्रीसिद्ध विद्यायै नमः । ७०. श्रीहरि-प्रियायै नमः । ७१. श्रीपद्मावत्यै नमः। ७२. श्रीपद्म-वर्णायै नमः। ७३. श्रीपद्माक्ष्यै नमः। ७४. श्रीपद्म सम्भवायै नमः। ७५. श्रीधारिण्यै नमः ।
७६. श्रीधरित्र्यै नमः। ७७. श्रीधात्र्यै नमः । ७८. श्रीअगम्या-वासिन्यै नमः । ७९. श्रीगम्य-वासिन्यै नमः । ८०. श्रीविद्यावत्यै नमः। ८१. श्रीमन्त्र- शक्तयै नमः । ८२. श्रीमन्त्र-सिद्धि-परायण्यै नमः । ८३. श्रीविराट्- धारिण्यै नमः। ८४. श्रीविधात्र्यै नमः । ८५. श्रीवारायै नमः । ८६. श्रीविश्व-रूपिण्यै नमः। ८७. श्रीपरायै नमः । ८८. श्रीपश्यायै नमः। ८९. श्रीअपरायै नमः । ९०. श्रीमध्यायै नमः । ९१. श्रीदिव्य-वाद-विलासिन्यै नमः । श्रीनादायै नमः। ९३. श्रीबिन्दवे नमः । ९४. श्रीकलायै नमः। ९५. श्रीज्योत्यै नमः । ९६. श्रीविजयायै नमः । ९७. श्रीभुवनेश्वर्यै नमः। ९८. श्रीऐं-कारिण्यै नमः । ९९. श्रीभयङ्कर्यै नमः । १००. श्रीक्लीं-कार्यै नमः।
९२.
१०१. श्रीकमल-प्रियायै नमः । १०२. श्रीसौङ्कार्यै नमः । १०३. श्रीशिव-पल्यै नमः। १०४. श्रीपर-तत्त्व- प्रकाशिन्यै नमः। १०५. श्रीह्रीङ्कार्यै नमः । १०६. श्रीआदि-मायायै नमः । १०७. श्रीयन्त्र-परायण्यै नमः । १०८. श्रीमूर्ति-परायण्यै नमः ।