mantrasadhanagyan.online

श्रीबगला का षट्-त्रिंशदक्षर-मन्त्र

विनियोग — ॐ अस्य श्रीबगलामुखी-मन्त्रस्य श्रीनारद ऋषिः, त्रिष्टुप् छन्दः, श्रीबगलामुखी देवता, ह्रीं वीजं, स्वाहा शक्तिः, ॐ कीलकं, श्रीबगलामुखी-देवता-प्रसाद- सिद्ध्यर्थे जपे विनियोगः ।

ऋष्यादि-न्यास – श्रीनारद-ऋषये नम: शिरसि, त्रिष्टुप् छन्दसे नमः मुखे, श्रीबगलामुखी-देवतायै नमः हृदि, ‘ह्रीं’ वीजाय नमः गुह्ये, ‘स्वाहा’-शक्तये नमः पादयोः, ‘ॐ’-कीलकाय नमः सर्वाङ्गे, श्रीबगलामुखी-देवता-प्रसाद-सिद्ध्यर्थे जपे विनियोगाय नमः अञ्जलौ ।

कर-न्यास– ह्लां अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । लं मध्यमाभ्यां नमः। हैं अनामिकाभ्यां नमः। ह्रौं कनिष्ठिकाभ्यां नमः । ह्नः करतलकरपृष्ठाभ्यां नमः ।

षडङ्ग-न्यास- ‘ॐ ह्लीं’- हृदयाय नमः । ‘बगलामुखि’- शिरसे स्वाहा। ‘सर्व-दुष्टानां’- शिखायै वषट्। ‘वाचं मुखं पदं स्तम्भय’-कवचाय हुम्। ‘जिह्वां कीलय’-नेत्र-त्रयाय वौषट् । ‘बुद्धिं विनाशय ह्रीं ॐ स्वाहा’-अस्त्राय फट्।

ध्यान – मध्ये सुधाब्धि-मणि-मण्डप – रत्न-वेदी- सिंहासनोपरि-गतां परि-पीत-वर्णाम्। पीताम्बराभरण-माल्य-विभूषिताङ्गीम्,
देवीं स्मरामि धृत-मुद्गर-वैरि-जिह्वाम्॥
अर्थात् सुधा-सागर के मध्य में मणि-मय मण्डप है। उसके मध्य में रत्नों की वेदी पर सिंहासन है, जिस पर भगवती बगलामुखी बैठी हैं। वे पीत-वर्णा हैं और पीले वस्त्र, पीले आभूषण और पीली माला से उनका शरीर विभूषित है। उनके एक हाथ में मुद्गर और दूसरे हाथ में शत्रु की जीभ है। वे बाएँ हाथ से शत्रु की जीभ पकड़कर दाएँ हाथ से गदा की चोट कर शत्रु को पीड़ित कर रही हैं।

मानस-पूजन — ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीबगला-प्रीतये समर्पयामि नमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीबगला-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीबगला-प्रीतये घ्रापयामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीबगला-प्रीतये दर्शयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्रीबगला-प्रीतये निवेदयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीबगला-प्रीतये समर्पयामि नमः।

मन्त्र — ॐ ह्रीं बगलामुखि ! सर्व दुष्टानां वाचं मुखं पदं स्तम्भय, जिह्वां कीलय, बुद्धि विनाशय, ह्रीं ॐ स्वाहा। (३६ अक्षर)।

जप-विधि एवं समर्पण— पूर्व-मुख होकर पीले वस्त्र धारण कर हरिद्रा-ग्रन्थि-मयी माला से उक्त मन्त्र का ‘जप’ करे। ब्रह्मचर्य का पालन करे, शान्त-चित्त रहे और देवी का ध्यान करता रहे। ‘जप’ कर चुकने पर ‘समर्पण’ करे-
                      ॐ गुह्याति-गुह्य- गोप्त्री त्वं, गृहाणास्मत्-कृतं जपम्।

                              त्वत्-प्रसादान्मे देवि! सिद्धिर्भवतु महेश्वरि! ॥

                        ॥ इदं जपं श्रीबगलामुखी-देव्यै समर्पयामि स्वाहा ॥

श्रीबगलामुखी कवच

विनियोग-ॐ अस्य श्रीबगलामुखी कवचस्य श्रीनारद ऋषिः, अनुष्टुप् छन्दः, श्रीबगला-मुखी देवता, ‘लं’ वीजं, ‘ई’ शक्तिः, ‘ऐं’ कीलकं, पुरुषार्थ-चतुष्टय-प्राप्तये पाठे विनियोगः ।

ऋष्यादि-न्यास– श्रीनारद-ऋषये नम: शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीबगलामुखी-देवतायै नमः हृदि, ‘लं’ वीजाय नमः गुह्ये, ‘ई’ – शक्तये नमः नाभौ, ‘ऐं’ कीलकाय नमः पादयोः, पुरुषार्थ-चतुष्टय प्राप्तये पाठे विनियोगाय नमः सर्वाङ्ग ।
|| ध्यान ॥
मध्ये सुधाब्धि-मणि-मण्डप रत्न-वेद्याम्, सिंहासनोपरि गतां परि-पीत वर्णाम् ।

पीताम्बराभरण-माल्य-विभूषिताङ्गीम्, देवीं भजामि धृत- मुद्गर- वैरि जिह्वाम् ।।

मानस-पूजन-ॐ लं पृथ्वी तत्त्वात्मकं गन्धं श्रीबगला प्रीतये समर्पयामि नमः । ॐ हं आकाश- तत्त्वात्मकं पुष्पं श्रीबगला- प्रीतये समर्पयामि नमः। ॐ यं वायु तत्त्वात्मकं धूपं श्रीबगला- प्रीतये प्रापयामि नमः। ॐ रं अग्नि तत्त्वात्मकं दीपं श्रीबगला-प्रीतये दर्शयामि नमः। ॐ वं जल- तत्त्वात्मकं नैवेद्यं श्रीबगला- प्रीतये निवेदयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीबगला-प्रीतये समर्पयामि नमः।
‘प्राणायाम’ कर ‘कवच-स्तोत्र’ का पाठ करें-

॥ कवच स्तोत्र ।।

शिरो मे बगला पातु, हृदयैकाक्षरी परा । ॐ ह्रीं ॐ मे ललाटे च, बगला वैरि-नाशिनी ।। १

गदा-हस्ता सदा पातु, मुखं मे मोक्ष-दायिनी । वैरि-जिह्वां धरा पातु कण्ठं मे बगला मुखी ।। २

उदरं नाभि-देशं च, पातु नित्यं परात्परा । परात्पर-तरा पातु, मम गुह्यं सुरेश्वरी ।। ३

हस्तौ चैव तथा पातु, पार्वती परि पातु मे । विवादे विषमे घोरे, संग्रामे रिपु-सङ्कटे ।।४

पीताम्बर-धरा पातु, सर्वाङ्गं शिव-नर्तकी । श्रीविद्या समयां पातु, मातङ्गी पूजिता शिवा ।।५

पातु पुत्रं सतां चैव, कलत्रं कालिका मम । भ्रातरं पातु नित्यं मे, पितरं शूलिनी सदा ।।

रन्ध्रे हि बगला-देव्याः, कवचं मन्मुखोदितम् ।।६

 

॥ फलश्रुति ॥
महा-भये विपत्तौ च, पठेत् वा पाठयेत् तु यः । तस्य सर्वार्थ-सिद्धिः स्यात्, भक्ति-युक्तस्य पार्वति ! ।। १

श्रीबगला - अष्टोत्तर शत नामावली

१. श्रीबगलायै नमः। २. श्रीविष्णु-वनितायै नमः। ३. श्रीविष्णु-शङ्कर-भामिन्यै नमः। ४. श्रीबहुलायै नमः। ५. श्रीवेद-मात्रे नमः। ६. श्रीमहा-विष्णु-प्रस्वै नमः । ७. श्रीमहा-मत्स्यायै नमः। ८. श्रीमहा-कूर्मायै नमः। ९. श्रीमहा-वाराह-रूपिण्यै नमः । १०. श्रीनर-सिंह-प्रियायै नमः । ११. श्रीरम्यायै नमः। १२. श्रीवामनायै नमः। १३. श्रीवटु-रूपिण्यै नमः । १४. श्रीजामदग्न्य-स्वरूपायै नमः । १५. श्रीरामायै नमः। १६. श्रीराम- प्रपूजितायै नमः। १७. श्रीकृष्णायै नमः । १८. श्रीकपर्दिन्यै नमः । १९. श्रीकृत्यायै नमः। २०. श्रीकलहायै नमः। २१. श्रीकल-कारिण्यै नमः । २२. श्रीबुद्धि-रूपायै नमः । २३. श्रीबुद्ध-भार्यायै नमः। २४. श्रीबौद्ध- पाखण्ड-खण्डिन्यै नमः । २५. श्रीकल्कि-रूपायै नमः ।
२६. श्रीकलि-हरायै नमः । २७. श्रीकलि-दुर्गति-नाशिन्यै नमः । २८. श्रीकोटि-सूर्य-प्रतीकाशायै नमः। २९. श्रीकोटि-कन्दर्प-मोहिन्यै नमः। ३०. श्रीकेवलायै नमः। ३१. श्रीकठिनायै नमः। ३२. श्रीकाल्यै नमः। ३३. श्रीकलायै नमः। ३४. श्रीकैवल्य-दायिन्यै नमः। ३५. श्रीकेशव्यै नमः। ३६. श्रीकेशवाराध्यायै नमः। ३७. श्रीकिशोर्यै नमः। ३८. श्रीकेशव स्तुतायै नमः। ३९. श्रीरुद्र-रूपायै नमः । ४०. श्रीरुद्र-मूर्त्यै नमः । ४१. श्रीरुद्राण्यै नमः। ४२. श्रीरुद्र देवतायै नमः । ४३. श्रीनक्षत्र-रूपायै नमः । ४४. श्रीनक्षत्रायै नमः। ४५. श्रीनक्षत्रेश-प्रपूजितायै नमः । ४६. श्रीनक्षत्रेश-प्रियायै नमः । ४७. श्रीनित्यायै नमः । ४८. श्रीनक्षत्र-पति- वन्दितायै नमः। ४९. श्रीनागिन्यै नमः । ५०. श्रीनाग-जनन्यै नमः ।
५१. श्रीनाग-राज-प्रवन्दितायै नमः । ५२. श्रीनागेश्वर्यै नमः। ५३. श्रीनाग-कन्यायै नमः । ५४. श्रीनागर्यै नमः। ५५. श्रीनगात्मजायै नमः। ५६. श्रीनगाधिराज-तनयायै नमः। ५७. श्रीनग-राज-प्रपूजितायै नमः । ५८. श्रीनवीनायै नमः। ५९. श्रीनीरदायै नमः। ६०. श्रीपीतायै नमः । ६१. श्रीश्यामायै नमः। ६२. श्रीसौन्दर्य- कारिण्यै नमः। ६३. श्रीरक्तायै नमः। ६४. श्रीनीलायै नमः । ६५. श्रीघनायै नमः। ६६. श्रीशुभ्रायै नमः। ६७. श्रीश्वेतायै नमः। ६८. श्रीसौभाग्य-दायिन्यै नमः। ६९. श्रीसुन्दर्यै नमः। ७०. श्रीसौभगायै नमः । ७१. श्रीसौम्यायै नमः। ७२. श्रीस्वर्णाभायै नमः । ७३. श्रीस्वर्गति-प्रदायै नमः । ७४. श्रीरिपु-त्रास-कर्यै नमः । ७५. श्रीरेखायै नमः।
७६. श्रीशत्रु-संहार-कारिण्यै नमः । ७७. श्रीभामिन्यै नमः । ७८. श्रीमायायै नमः । ७९. श्रीस्तम्भिन्यै नमः। ८०. श्रीमोहिन्यै नमः । ८१. श्रीशुभायै नमः । ८२. श्रीराग-द्वेष-कर्यै नमः। ८३. श्रीरात्र्यै नमः । ८४. श्रीरौरव-ध्वंस-कारिण्यै नमः । ८५. श्रीयक्षिण्यै नमः । ८६. श्रीसिद्ध-निवहायै नमः। ८७. श्रीसिद्धेशायै नमः । ८८. श्रीसिद्धि-रूपिण्यै नमः । ८९. श्रीलङ्का-पति-ध्वंस-कर्यै नमः । ९०. श्रीलङ्केश-रिपु-वन्दितायै नमः। ९१. श्रीलङ्का-नाथ-कुल- हरायै नमः । ९२. श्रीमहा-रावण-हारिण्यै नमः । ९३. श्रीदेव-दानव-सिद्धौघ- पूजिता-परमेश्वर्यै नमः। ९४. श्रीपराणु-रूपा – – परमायै नमः । ९५. श्रीपर-तन्त्र – विनाशिन्यै नमः । ९६. श्रीवरदायै नमः। ९७. श्रीवरदाऽऽराध्यायै नमः । ९८. श्रीवर-दान-परायणायै नमः। ९९. श्रीवर-देश-प्रिया वीरायै नमः । १००. श्रीवीर-भूषण-भूषितायै नमः ।
१०१. श्रीवसुदायै नमः। १०२. श्रीबहुदो-वाण्यै नमः । १०३. श्रीब्रह्म-रूपा-वराननायै नमः। १०४. श्रीबलदायै नमः। १०५. श्रीपीत-वसना-पीत-भूषण-भूषितायै नमः। १०६. श्रीपीत-पुष्प-प्रियायै नमः । १०७. श्रीपीत-हारायै नमः । १०८. श्रीपीत-स्वरूपिण्यै नमः ।