mantrasadhanagyan.online

॥ श्रीदक्षिणा-काली का एकाक्षर-मन्त्र ॥

 

विनियोग — ॐ अस्य श्रीदक्षिणा-काली- एकाक्षर-मन्त्रस्य श्रीभैरव ऋषिः, उष्णिक् छन्दः, श्रीदक्षिणा- कालिका देवता, ह्रीं बीजं, हूं शक्तिः, क्रीं कीलकं, श्रीदक्षिणा-कालिका-
देवता-प्रीत्यर्थे जपे विनियोगः ।

ऋष्यादि-न्यास — शिरसि श्रीभैरव-ऋषये नमः, मुखे उष्णिक्-छन्दसे नमः, हृदि श्रीदक्षिणा-कालिकायै देवतायै नमः, गुह्ये ‘ह्रीं’-बीजाय नमः, पादयोः ‘हूं’-शक्तये नमः, सर्वाद्ध ‘क्रीं’-कीलकाय नमः, श्रीदक्षिणा- कालिका देवता-प्रीत्यर्थे जपे विनियोगाय नमः

अञ्जली में कराङ्ग-न्यास — ॐ क्रां अंगुष्ठाभ्यां नमः । ॐ क्रीं तर्जनीभ्यां स्वाहा । ॐ कूं मध्यमाभ्यां वषट्। ॐ क्रैं अनामिकाभ्यां हुम् । ॐ क्रौं कनिष्ठाभ्यां वौषट् । ॐ क्रः करतल करपृष्ठाभ्यां फट् ।

षडङ्ग-न्यास — ॐ क्रां हृदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रं शिखायै वषट् । ॐ मैं कवचाय हुम् । ॐ क्रौं नेत्रत्रयाय वौषट् । ॐ क्रः अस्त्राय फट्। ध्यान—शवारूढां महा-भीमां, घोर-दंष्ट्रां वर-प्रदाम्।
हास्य- युक्तां त्रिनेत्रां च, कपाल-कर्तृका-कराम् ॥
मुक्त-केशीं ललज्जिह्वां, पिबन्तीं रुधिरं मुहुः ।
चतुर्बाहु-युतां देवीं वराभय-करां स्मरे ॥
        अर्थात् माँ काली शवारूढा हैं। आकृति बड़ी भयङ्कर है। भयानक दाँत हैं। वर-दान दे रही हैं। हास्य-मुखी और त्रि-लोचना हैं। हाथों में कपाल और कैंची हैं। केश छिटके हुए हैं और जिह्वा चञ्चल है। ये बार-बार रक्त-पान कर रह हैं।ऐसी चार भुजाओंवाली देवी को, जो हाथों से ‘वर’-‘अभय’ दे रही हैं, मैं स्मरण करता हूँ।

 मानस-पूजन — ॐ लं पृथ्वी तत्त्वात्मकं गन्धं श्रीदक्षिणा-कालिका-प्रीतये समर्पयामि नमः । ॐ हं आकाश तत्त्वात्मकं पुष्पं श्रीदक्षिणा-    कालिका-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीदक्षिणा-कालिका-प्रीतये घ्रापयामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीदक्षिणा कालिका-प्रीतये दर्शयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्रीदक्षिणा- कालिका-प्रीतये निवेदयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूश्रीदक्षिणा-कालिका-प्रीतये समर्पयामि नमः।

मन्त्र –   ‘क्रीं’। (एकाक्षर)।
जप-विधि एवं समर्पण – उक्त मन्त्र का प्रति-दिन निश्चित संख्या में ‘जप’ करे। ‘जप’ करने के बाद यह भावना करते हुए कि भगवती के अनुग्रह से हमारा अभीष्ट सिद्ध होगा, ‘जप के फल’ को भगवती के बाएँ हाथ में समर्पित करे-
ॐ गुह्याति-गुह्य-गोप्त्रीत्वं, गृहाणास्मत्-कृतं जपम्।
सिद्धिर्भवतु मे देवि! त्वत्-प्रसादान् महेश्वरि ! ॥ ॥ इदं जपं श्रीदक्षिणा- कालिका-देव्यै समर्पयामि स्वाहा ॥

॥ श्रीदक्षिणा-कालिका- जगन्मङ्गल-कवच ॥

॥ सर्व-दुःख-नाशक, सर्व-सिद्धि-प्रद, भुक्ति-मुक्ति-दायक श्रीदक्षिणा-कालिका- जगन्मङ्गल-कवच ॥

विनियोग-ॐ श्रीजगन्मङ्गलस्यास्य कवचस्य श्रीशिवः ऋषिः । अनुष्टुप् छन्दः । श्रीदक्षिणा-कालिका देवता। जगतां मोहने, दुष्ट-विजये, भुक्ति-मुक्तिषु, योषिदाकर्षणे वा पाठे विनियोगः । ऋष्यादि-न्यास-श्री शिव-ऋषये नम: शिरसि। अनुष्टुप् छन्दसे नमः मुखे। श्रीदक्षिणा-कालिका- देवतायै नमः हृदि। जगतां मोहने, दुष्ट-विजये, भुक्ति-मुक्तिषु, योषदाकर्षणे वा पाठे विनियोगाय नमः अञ्जलौ ।

॥ कवच स्तोत्र ॥

शिरो मे कालिका पातु, क्रीङ्कारैकाक्षरी परा । क्रीं क्रीं क्रीं मे ललाटे च, कालिका खड्ग धारिणी ।। १

हूँ हूँ पातु नेत्र-युग्मं, ह्रीं ह्रीं पातु श्रुति-द्वयं । दक्षिणे कालिके पातु, घ्राण-युग्मं महेश्वरि ! ।। २

क्रीं क्रीं क्रीं रसना पातु, हूँ हूँ पातु कपोलकं । वदनं सकलं पातु, ह्रीं ह्रीं स्वाहा-स्वरूपिणी ।। ३

द्वा-विंशत्यक्षरी स्कन्धौ, महा-विद्याऽखिल-प्रदा । खड्ग-मुण्ड-धरा काली, सर्वाङ्गमभितोऽवतु ।।४

क्रीं हूँ ह्रीं त्र्यक्षरी पातु, चामुण्डा हृदयं मम । ऐं हूँ ॐ ऐं स्तन- द्वन्द्वं, ह्रीं फट् स्वाहा ककुत्स्थलम् ।। ५

अष्टाक्षरी महा-विद्या, भुजौ पातु स-कर्तृका । क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं पातु, करौ षडक्षरी मम ।। ६

क्रीं नाभिं मध्य- देशं च, दक्षिणे कालिकेऽवतु । क्रीं स्वाहा पातु पृष्ठं च, कालिका सा दशाक्षरी ।।७

क्रीं मे गुह्यं सदा पातु, कालिकायै नमस्ततः । सप्ताक्षरी महा-विद्या, सर्व-तन्त्रेषु गोपिता ।। ८

ह्रीं ह्रीं दक्षिणे कालिके, हूँ हूँ पातु कटि-द्वयं । काली दशाक्षरी विद्या, स्वाहान्ता चोरु-युग्मकम् ।। ९

ॐ ह्रीं क्रीं स्वाहा मे पातु, जानुनी कालिका सदा । काली हृदय-विद्येयं, चतुर्वर्ग-फल-प्रदा ।। १०

क्रीं हूँ ह्रीं पातु सा गुल्फं, दक्षिणे कालिकेऽवतु । क्रीं हूँ ह्रीं स्वाहा मे पातु, चतुर्दशाक्षरी मम ।। ११

खड्ग-मुण्ड-धरा काली, वरदाभय-धारिणी । विद्याभिः सकलाभिः सा, सर्वाङ्गमभितोऽवतु ।। १२

काली कपालिनी कुल्ला, कुरु-कुल्ला विरोधिनी । विप्र-चित्ता तथोग्रोग्र-प्रभा दीप्ता घनत्विषः ।। १३

नीला घना बलाका च, मात्रा मुदा मिता च मां । एताः सर्वाः खड्ग-धरा, मुण्ड- माला-विभूषणाः ।। १४

रक्षन्तु मां दिग्-विदिक्षु, ब्राह्मी नारायणी तथा । माहेश्वरी च चामुण्डा, कौमारी चापराजिता ।। १५

वाराही नारसिंही च, सर्वाश्चामित- भूषणाः । रक्षन्तु स्वायुधैर्दिक्षु, विदिक्षु मां यथा तथा ।। १६

शुभं ते कथितं दिव्यं कवचं परमाद्भुतं । श्रीजगन्मङ्गलं नाम, महा-विद्यौघ-विग्रहम् ।।१७ 

॥ फलश्रुति ॥
त्रैलोक्याकर्षणं ब्रह्म-कवचं परमाद्भुतं । गुरु-पूजां विधायाथ, विधि-वत् प्रपठेत् ततः ।। १

कवचं त्रिः सकृद् वापि, यावज्ज्ञानं च वा पुनः। एतच्छतार्धमावर्त्य, त्रैलोक्य विजयी भवेत् ।। २

श्रीकाली- ककारादि-नाम-शताष्टक-नामावली

१. श्रीकाल्यै नमः। २. श्रीकपालिन्यै नमः । ३. श्रीकान्तायै नमः। ४. श्रीकामदायै नमः। ५. श्रीकाम- सुन्दर्यै नमः। ६. श्रीकाल-रात्र्यै नमः। ७. श्रीकालिकायै नमः । ८. श्रीकाल-भैरव-पूजितायै नमः । ९. श्रीकुरु-कुल्लायै नमः। १०. श्रीकामिन्यै नमः । ११. श्रीकमनीय-स्वभाविन्यै नमः । १२. श्रीकुलीनायै नमः। १३. श्रीकुल- कर्यै नमः । १४. श्रीकुल-वर्त्म-प्रकाशिन्यै नमः । १५. श्रीकस्तूरी-रस-नीलायै नमः। १६. श्रीकाम्यायै नमः। १७, श्रीकाम-स्वरूपिण्यै नमः । १८. श्रीककार-वर्ण-निलयायै नमः। १९. श्रीकाम- धेनवे नमः। २०. श्रीकरालिकायै नमः । २१. श्रीकुल-कान्तायै नमः । २२. श्रीकरालास्यायै नमः। २३. श्रीकामार्त्तायै नमः। २४. श्रीकलावत्यै नमः । २५. श्रीकृशोदर्यै नमः ।
२६. श्रीकामाख्यायै नमः । २७ श्रीकौमार्यै नमः । २८. श्रीकुल- पालिन्यै नमः। २९. श्रीकुलजायै नमः। ३०. श्रीकुल-कन्यायै नमः। ३१. श्रीकलहायै नमः। ३२. श्रीकुल- पूजितायै नमः। ३३. श्रीकामेश्वर्यै नमः । ३४. श्रीकाम-कान्तायै नमः। ३५. श्रीकुञ्जरेश्वर-गामिन्यै नमः । ३६. श्रीकाम- दात्र्यै नमः। ३७. श्रीकाम- हर्यै नमः। ३८. श्रीकृष्णायै नमः। ३९. श्रीकपर्दिन्यै नमः । ४०. श्रीकुमुदायै नमः । ४१. श्रीकृष्ण-देहायै नमः । ४२. श्रीकालिन्द्यै नमः। ४३. श्रीकुल- पूजितायै नमः। ४४. श्रीकाश्यप्यै नमः । ४५. श्रीकृष्ण-मात्रे नमः। ४६. श्रीकुलिशाङ्गयै नमः। ४७. श्रीकलायै नमः । ४८. श्रीक्रीं-रूपायै नमः । ४९. श्रीकुल- गम्यायै नमः । ५०. श्रीकमलायै नमः ।
५१. श्रीकृष्ण- पूजितायै नमः । ५२. श्रीकृशाङ्गयै नमः। ५३. श्रीकिन्नर्यै नमः । ५४. श्रीकर्यै नमः। ५५. श्रीकल-कण्ठ्यै नमः । ५६. श्रीकार्तिक्यै नमः । ५७. श्रीकम्बु-कण्ठ्यै नमः। ५८. श्रीकौलिन्यै नमः । ५९. श्रीकुमुदायै नमः। ६०. श्रीकाम- जीविन्यै नमः । ६१. श्रीकुल- स्त्रियै नमः । ६२. श्रीकीर्तिकायै नमः। ६३. श्रीकृत्यायै नमः। ६४. श्रीकीत्यै नमः । ६५. श्रीकुल-पालिकायै नमः । ६६. श्रीकाम-देव-कलायै नमः। ६७. श्रीकल्प-लतायै नमः । ६८. श्रीकामाङ्ग-वर्धिन्यै नमः । ६९. श्रीकुन्तायै नमः । ७०. श्रीकुमुद-प्रीतायै नमः । ७१. श्रीकदम्ब-कुसुमोत्सुकायै नमः । ७२. श्रीकादम्बिन्यै नमः । ७३. श्रीकमलिन्यै नमः । ७४. श्रीकृष्णानन्द- प्रदायिन्यै नमः। ७५. श्रीकुमारी – पूजन-रतायै नमः।
७६. श्रीकुमारी-गण-शोभितायै नमः । ७७. श्रीकुमारी-रञ्जन-रतायै नमः । ७८. श्रीकुमारी – व्रत-धारिण्यै नमः। ७९. श्रीकङ्काल्यै नमः । ८०. श्रीकमनीयायै नमः । ८१. श्रीकाम-शास्त्र-विशारदायै नमः । ८२. श्रीकपाल-खट्वाङ्ग-धरायै नमः । ८३. श्रीकाल-भैरव-रूपिण्यै नमः । ८४. श्रीकोटयै नमः । ८५. श्रीकोटराक्ष्यै नमः। ८६. श्रीकाश्यै नमः । ८७. श्रीकैलास-वासिन्यै नमः। ८८. श्रीकात्यायिन्यै नमः । ८९. श्रीकार्य-कर्यै नमः । ९०. श्रीकाव्य-शास्त्र-प्रमोदिन्यै नमः । ९१. श्रीकामाकर्षण-रूपायै नमः । ९२. श्रीकाम-पीठ-निवासिन्यै नमः । ९३. श्रीकङ्किन्यै नमः । ९४. श्रीकाकिन्यै नमः। ९५. श्रीक्रीडायै नमः । ९६. श्रीकुत्सितायै नमः। ९७. श्रीकलह-प्रियायै नमः । ९८. श्रीकुण्ड गोलोद्भव -प्राणायै नमः । ९९. श्रीकौशिक्यै नमः । १००. श्रीकीर्ति-वर्द्धिन्यै नमः ।
१०१. श्रीकुम्भ-स्तन्यै नमः । १०२. श्रीकटाक्षायै नमः । १०३. श्रीकाव्यायै नमः । १०४. श्रीकोक-नद- प्रियायै नमः। १०५. श्रीकान्तार-वासिन्यै नमः । १०६. श्रीकान्त्यै नमः । १०७. श्रीकठिनायै नमः । १०८. श्रीकृष्ण-वल्लभायै नमः ।