विनियोग — ॐ अस्य श्रीकमला- एकाक्षर मन्त्रस्य श्रीभृगुः ऋषिः, निवृच् छन्दः, श्री देवता, शं वीजं, ईं शक्तिः, मम धनाप्तये जपे विनियोगः ।
ऋष्यादि-न्यास — श्रीभृगु ऋषये नम: शिरसि, निवृच्छन्दसे नमः मुखे, श्री- देवतायै नमः हृदये, ‘शं’-वीजाय नमः गुह्ये, ‘ईं’-शक्तये नमः पादयोः, मम धनाप्तये जपे विनियोगाय नमः सर्वाङ्गे।
कर-न्यास — ॐ श्रां अंगुष्ठाभ्यां नमः । ॐ श्रीं तर्जनीभ्यां नमः । ॐ श्रूं मध्यमाभ्यां नमः । ॐ भैं अनामिकाभ्यां नमः । ॐ श्रौं कनिष्ठाभ्यां नमः । ॐ श्रः करतलकरपृष्ठाभ्यां नमः ।
षडङ्ग-न्यास-ॐ श्रां हृदयाय नमः। ॐ श्रीं शिरसे स्वाहा । ॐ श्रूं शिखायै वषट् । ॐझैं कवचाय हुम् । ॐ श्रौं नेत्रत्रयाय वौषट् । ॐ श्रः अस्त्राय फट्।
ध्यान— कान्त्या काञ्चन-सन्निभां हिम-गिरि-प्रख्यैश्चतुर्भिर्गजैः,
हस्तोत्क्षिप्त- हिरण्मयामृत-घटैराषिञ्च्यमानां श्रियम् ।
बिभ्राणां वरमब्ज-युग्ममभयं हस्तैः किरीटोज्ज्वलाम्,
क्षौमाबद्ध-नितम्ब-बिम्ब-ललितां वन्देऽरविन्द-स्थिताम्॥
अर्थात् हिमालय के समान विशाल एवं उज्ज्वल चार हाथी अपनी सूँड़ों में उठाए हुए अमृत-पूर्ण स्वर्ण-कलशों से अमृत-धारा द्वारा स्वर्ण-समान देह-कान्तिवाली भगवती श्री का अभिषेक कर रहे हैं। भगवती भी अपने दाएँ ऊपरी हाथ में पद्म, नीचे के हाथ में वर-मुद्रा और बाँएँ ऊपरी हाथ में पद्म, नीचे के हाथ में अभय मुद्रा धारण किए हैं। उनके मस्तक पर उज्ज्वल रत्न- मुकुट है। पट्ट-वस्त्र धारण किए वे अरविन्द (कमल) के ऊपर विराजमाना हैं।
मानस-पूजन — ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीकमला-प्रीतये समर्पयामि नमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीकमला-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीकमला- प्रीतये घ्रापयामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीकमला-प्रीतये दर्शयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्रीकमला-प्रीतये निवेदयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीकमला- प्रीतये समर्पयामि नमः।
मन्त्र – श्रीं । (एकाक्षर)।
जप-विधि एवं समर्पण— पहले किसी योग्य ‘गुरु’ से उक्त एकाक्षर मन्त्र को ग्रहण करे। यदि कोई योग्य गुरु न मिले, तो जगद्-गुरु भगवान् दक्षिणामूर्ति से ‘श्रीं’-वीज ग्रहण करे। रात्रि- जागरण कर माँ की पूजा व ‘जप’ करे। आश्चर्य जनक रूप से कार्य-सिद्धि होगी। विशेष लाभ पाने के लिए ‘जप’ के बाद ‘श्रीं’-बीज से सम्पुटित ‘सप्तशती’ का पाठ करे । ‘जप’ का समर्पण इस प्रकार करे-
ॐ गुह्याति-गुह्य गोप्त्री त्वं गृहाणास्मत्-कृतं जपम्।
त्वत्-प्रसादान्मे देवि ! सिद्धिर्भवतु महेश्वरि ! ॥
॥ इदं जपं श्रीकमला- देव्यै समर्पयामि स्वाहा ॥
॥ सर्व-सिद्धि-समृद्धि दायक ॥
विनियोग-ॐ अस्य श्रीलक्ष्मी-कवचस्य श्रीभगवान् शिव ऋषिः, अनुष्टुप् छन्दः, श्रीलक्ष्मी देवता, ‘ऐं’ वीजं, ‘ह्रीं’ शक्तिः, ‘श्रीं’ कीलकं, सुकवित्व-सुपाण्डित्य-सर्व-सिद्धि- समृद्धये पाठे विनियोगः ।
ऋष्यादि-न्यास-श्रीशिव-ऋषये नम: शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीलक्ष्मी-देवतायै नमः हृदि, ‘ऐं’ – वीजाय नमः गुह्ये, ‘ह्रीं’ – शक्तये नमः नाभौ, ‘श्री’ – कीलकाय नमः पादयोः, सुकवित्व- सुपाण्डित्य – सर्व सिद्धि-समृद्धये पाठे विनियोगाय नमः अञ्जलौ ।
।। कवच-स्तोत्र ।।
ऐङ्कारो मस्तके पातु, वाग्भवी सर्व-सिद्धिदा । ह्रीं पातु चक्षुषोर्मध्ये, चक्षु-युग्मे च शाङ्करी ।। १
जिह्वायां मुख-वृत्ते च, कर्णयोर्गण्डयोर्नसि । ओष्ठाधरे दन्त-पंक्तौ, तालु-मूले हनौ पुनः ।। २
पातु मां विष्णु- वनिता, लक्ष्मीः श्रीवर्ण-रूपिणी । कर्ण-युग्मे भुज- द्वन्द्वे, स्तन- द्वन्द्वे च पार्वती ।। ३
हृदये मणि-बन्धे च, ग्रीवायां पार्श्वयोः पुनः । पृष्ठ-देशे तथा गुह्ये, वामे च दक्षिणे तथा ।।४
उपस्थे च नितम्बे च, नाभौ जङ्घा- द्वये पुनः । जानु-चक्रे पद- द्वन्द्वे, घुटिकेंऽ गुलि – मूलके ।।५
स- धातु- प्राण- शक्त्यां वा, सीमान्ते मस्तके तथा । सर्वाङ्गे पातु कामेशी, महा- देवी समुन्नतिः ।। ६
पुष्टिः पातु महा-माया, उत्कृष्टिः सर्वदाऽवतु । ऋद्धिः पातु महा देवी, सर्वत्र शम्भु वल्लभा ।।७
वाग्भवी सर्वदा पातु, पातु मां हर-गेहिनी । रमा पातु महा-देवी, पातु माया स्वराट् स्वयम् ।। ८
सर्वाङ्गे पातु मां लक्ष्मीर्विष्णु माया सुरेश्वरी । विजया पातु भवने, जया पातु सदा मम ।। ९
शिव-दूती सदा पातु, सुन्दरी पातु सर्वदा । भैरवी पातु सर्वत्र, भेरुण्डा सर्वदाऽवतु ।।१०
त्वरिता पातु मां नित्यमुग्र-तारा सदाऽवतु । पातु मां कालिका नित्यं, काल-रात्रिः सदाऽवतु ।। ११
वन-दुर्गाः सदा पान्तु, कामाख्या सर्वदाऽवतु । योगिन्यः सर्वदा पान्तु, मुद्राः पान्तु सदा मम ।। १२
मातरः पान्तु देव्यश्च, चक्रस्था योगिनी-गणाः । सर्वत्र सर्व कार्येषु, सर्व-कर्मसु सर्वदा ।। १३
पातु मां देव-देवी च, लक्ष्मीः सर्व-समृद्धिदा ।। १४
॥ फलश्रुति ॥
इति ते कथितं दिव्यं कवचं सर्व सिद्धये । यत्र तत्र न वक्तव्यं, यदीच्छेदात्मनो हितम् ।। १
१. श्रीमहा-मायायै नमः। २. श्रीमहा-लक्ष्म्यै नमः। ३. श्रीमहा-वाण्यै नमः। ४. श्रीमहेश्वर्यै नमः। ५. श्रीमहा-देव्यै नमः। ६. श्रीमहा-रात्र्यै नमः। ७. श्रीमहिषासुरमर्दिन्यै नमः। ८. श्रीकाल-रात्र्यै नमः। ९. श्रीकुहवै नमः । १०. श्रीपूर्णायै नमः । ११. श्रीआनन्दायै नमः। १२. श्रीआद्यायै नमः। १३. श्रीभद्रिकायै नमः। १४. श्रीनिशायै नमः। १५. श्रीजयायै नमः । १६. श्रीरिक्तायै नमः। १७. श्रीमहा-शक्त्यै नमः। १८. श्रीदेव-मात्रे नमः। १९. श्रीकृशोदर्यै नमः। २०. श्रीशच्यै नमः । २१. श्रीइन्द्राण्यै नमः। २२. श्रीशक्र- नुतायै नमः। २३. श्रीशङ्कर-प्रिय-वल्लभायै नमः। २४. श्रीमहा-वराह-जनन्यै नमः। २५. श्रीमदनोन्मथिन्यै
नमः ।
२६. श्रीमह्यै नमः। २७. श्रीवैकुण्ठ-नाथ-रमण्यै नमः। २८. श्रीविष्णु-वक्ष-स्थल-स्थितायै नमः। २९. श्रीविश्वेश्वर्यै नमः। ३०. श्रीविश्व-मात्रे नमः। ३१. श्रीवरदायै नमः। ३२. श्रीअभयदायै नमः। ३३. श्रीशिवायै नमः। ३४. श्रीशूलिन्यै नमः। ३५. श्रीचक्रिण्यै नमः। ३६. श्रीपद्मायै नमः। ३७. श्रीपाशिन्यै नमः। ३८. श्रीशङ्ख-धारिण्यै नमः। ३९. श्रीगदिन्यै नमः ।४०. श्रीमुण्ड-मालायै नमः। ४१. श्रीकमलायै नमः । ४२. श्रीकरुणालयायै नमः। ४३. श्रीपद्माक्ष-धारिण्यै नमः। ४४. श्रीअम्बायै नमः। ४५. श्रीमहा-विष्णु- प्रियङ्कर्यै नमः। ४६. श्रीगोलोक-नाथ-रमण्यै नमः । ४७. श्रीगोलोकेश्वर-पूजितायै नमः ।४८. श्रीगयायै नमः। ४९. श्रीगङ्गायै नमः। ५०. श्रीयमुनायै नमः ।
५१. श्रीगोमत्यै नमः। ५२. श्रीगरुडासनायै नमः । ५३. श्रीगण्डक्यै नमः। ५४. श्रीसरय्वै नमः। ५५. श्रीताप्यै नमः। ५६. श्रीरेवायै नमः । ५७. श्रीपयस्विन्यै नमः । ५८. श्रीनर्मदायै नमः । ५९. श्रीकावेर्यै नमः । ६०. श्रीकेदार-स्थल-वासिन्यै नमः । ६१. श्रीकिशोर्यै नमः । ६२. श्रीकेशव-नुतायै नमः। ६३. श्रीमहेन्द्र- परिवन्दितायै नमः। ६४. श्रीब्रह्मादि-देव-निर्माण-कारिण्यै नमः । ६५. श्रीदेव-पूजितायै नमः । ६६. श्रीकोटि- ब्रह्माण्ड-मध्यस्थायै नमः। ६७. श्रीकोटि-ब्रह्माण्ड-कारिण्यै नमः । ६८. श्रीश्रुति-रूपायै नमः। ६९. श्रीश्रुति- कर्यै नमः। ७०. श्रीश्रुति-स्मृति-परायणायै नमः । ७१. श्रीइन्दिरायै नमः । ७२. श्रीसिन्धु-तनयायै नमः। ७३. श्रीमातङ्गयै नमः। ७४. श्रीलोक-मातृकायै नमः । ७५. श्रीत्रिलोक-जनन्यै नमः ।
७६. श्रीतन्त्रायै नमः। ७७. श्रीतन्त्र-मन्त्र-स्वरूपिण्यै नमः। ७८. श्रीतरुण्यै नमः। ७९. श्रीतमो-हन्त्र्यै नमः । ८०. श्रीमङ्गलायै नमः । ८१. श्रीमङ्गलायनायै नमः । ८२. श्रीमधु-कैटभ-मथिन्यै नमः । ८३. श्रीशुम्भासुर- विनाशिन्यै नमः। ८४, श्रीनिशुम्भादि-हरायै नमः । ८५. श्रीमात्रे नमः । ८६. श्रीहरि-पूजितायै नमः । ८७. श्रीशङ्कर-पूजितायै नमः । ८८. श्रीसर्व-देव-मय्यै नमः । ८९. श्रीसर्वायै नमः। ९०. श्रीशरणागत- पालिन्यै नमः। ९१. श्रीशरण्यायै नमः। ९२. श्रीशम्भु-वनितायै नमः । ९३. श्रीसिन्धु-तीर-निवासिन्यै नमः। ९४. श्रीगन्धर्व-गान-रसिकायै नमः। ९५. श्रीगीतायै नमः। ९६. श्रीगोविन्द-वल्लभायै नमः। ९७. श्रीत्रैलोक्य- पालिन्यै नमः। ९८. श्रीतत्त्व-रूप-तारुण्य-पूरितायै नमः । ९९. श्रीचन्द्रावल्यै नमः । १००. श्रीचन्द्र-मुख्यै
नमः ।
१०१. श्रीचन्द्रिकायै नमः। १०२. श्रीचन्द्र -पूजितायै नमः । १०३. श्रीचन्द्रायै नमः। १०४. श्रीशशाङ्क- भगिन्यै नमः। १०५. श्रीगीत-वाद्य-परायण्यै नमः। १०६. श्रीसृष्टि-रूपायै नमः । १०७, श्रीसृष्टि-कर्यै नमः। १०८. श्रीसृष्टि-संहार-कारिण्यै नमः ।